ब्रह्म स्तुति पञ्चकम्

 

ब्रह्म स्तुति पञ्चकम्


नमो नरकविद्वेषि नाभीनलिन जन्मने ।
ब्रह्मणे बृहदाकार भुवनाकारशिल्पिने ॥ १ ॥


चतुराननमंभोज निषण्णं भारतीसखं ।
अक्षमाला वराभीति कमण्डलुधरं भजे ॥ २ ॥


नमो विश्वसृजे तुभ्यं सत्याय परमात्मने ।
देवाय देवपतये यज्ञानां पतये नमः ॥ ३ ॥


नमस्ते लोकनाथाय नमस्ते सृष्टिकारिणे ।
नमस्ते वेदरूपाय नमस्ते ब्रह्मणे नमः ॥ ४ ॥


श्रीमद्वक्त्रारविन्द श्रुतिनिगममधुस्यन्दसन्दोहनन्दत् ।
विद्वत्भृंगाय गंगाहिमगिरिविलसत्पक्षहंसध्वजाय ।


भाषायोषित्प्रियाय प्रणतिकृतशिवप्राणि नाथप्रणामं ।
कुर्मो धर्मैकधाम्ने वयमखिलजगत्कर्मणेब्रह्मणे ते ॥ ५ ॥


॥ इति ब्रह्म स्तुति पञ्चकम् सम्पूर्णम् ॥