गुरुवायु पुरेश मङ्गल स्तुति

 

गुरुवायु पुरेश मङ्गल स्तुति


श्री कृष्णाय मुकुन्दाय श्रीराजद्दिव्यवर्ष्मणे ।
गुरुवायुपुरेशाय जगदीशाय मङ्गलं ॥ १ ॥


करुणार्द्रमनस्काय तरुणारुणरोचिषे ।
गुरुवायुपुरेशाय हृषीकेशाय मङ्गलं ॥ २ ॥


विश्वपालनदीक्षाय विश्वसन्तापहारिणे ।
गुरुवायुपुरेशाय वासुदेवाय मङ्गलं ॥ ३ ॥


भवाब्द्धितारकायाऽब्जभवाभीष्टद कर्मणे ।
गुरुवायु पुरेशाय नन्दपुत्राय मङ्गलं ॥ ४ ॥


पयोधिकन्यापतये पयोदोपम मूर्तये ।
गुरुवायुपुरेशाय नन्दपुत्राय मङ्गलं ॥ ५ ॥


तापापनोदलोलाय पापारण्यदवाग्नये ।
गुरुवायुपुरेशाय देवदेवाय मङ्गलं ॥ ६ ॥


॥ इति गुरुवायु पुरेश मङ्गल स्तुति सम्पूर्णम् ॥