ध्रुव कृत भागवत स्तुति

ध्रुव कृत भागवत स्तुति 

ध्रुव उवाच –

योऽन्त: प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधर: स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ।। 1 ।।


एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरूगुणया महदाधशेषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसुवद् विभासि ।। 2 ।।


त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्न: ।
तस्यापवग्र्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ।। 3 ।।


नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतो: ।
अर्चन्ति कल्पकतरुं कुणपोपभोग्यमिच्छन्ति यत्स्पर्शजं निरयेऽपि न्रणाम् ।। 4 ।।


या निर्व्रतिस्तनुभृतां तव पादपद्मध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्माणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासिलुलितात् पततां विमानात् ।। 5 ।।


भक्तिं मुहु: प्रवहतां त्वयि मे प्रसंगो भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्त: ।। 6 ।।


ते न स्मरन्त्यतितरां प्रियमीश मत्र्यं ये चान्वद: सुतसुह्र्दग्रहवित्तदारा: ।
ये त्वब्जनाभ भवदीयपदारविन्दसौगन्ध्यलुब्धह्रदयेषु कृतप्रसंगा: ।। 7 ।।


तिर्यंगद्विजसरीसृपदेवदैत्यमत्र्यादिभि: परिचितं सदसद्विशेषम् ।
रूपं स्थविष्ठमज ते महदाधनेकं नात: परं परम वेद्मि न यत्र वाद: ।। 8 ।।


कल्पान्त एतदखिलं जठरेण ग्रहणन् शेते पुमान् स्वदृगनन्तसखस्तदंके ।
यन्नाभिसिन्धुरूहकाञ्चनलोकपद्मगर्भे धुमान् भगवते प्रणतोऽस्मि तस्मै ।। 9 ।।


त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्र्यधीश: ।
यद् बुद्धयवस्थितिमखण्डितया स्वदृष्टया दृष्टा स्थितावधिमखो व्यतिरिक्त आस्से ।। 10 ।।


यस्मिन् विरुद्धगतयो ह्रानिशं पतन्ति विद्यादयो विविधशक्तय आनुपूव्र्यात् ।
तद् ब्रह्म विश्वभवमेकमनन्तमाधमानन्दमात्रमविकारमहं प्रपधे ।। 11 ।।


सत्याऽऽशिषो हि भगवंस्तव पादपद्ममाशीस्तथानुभजत: पुरुषार्थमूर्ते: ।
अप्येवमर्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ।। 12 ।।


।। इति ध्रुव कृत भागवत स्तुति सम्पूर्णम् ।।