श्री राम स्तुति

 

श्री राम स्तुति हिंदी पाठ


वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्ह्रदि भाव्यम् ।
हेयाहेयद्वंद्वविहीनं परमेकं सत्तामात्रं सर्वह्रदिस्थं दृशिरूपम् ।। 1 ।।


प्राणापानौ निश्चयबुद्धया ह्रदि रुद्ध्वा छित्त्वा सर्वं संशयबन्धं विषयौघान् ।
पश्यन्तीशं यं गतमोहा यतयस्तं वन्दे रामं रत्नकिरीटं रविभासम् ।। 2 ।।


मायातीतं माधवमाधं जगदादिं मानातीतं मोहविनाशं मुनिवन्धम् ।
योगिध्येयं योगविधानं परिपूर्णं वन्दे रामं रञ्जितलोकं रमणीयम् ।। 3 ।।


भावाभावप्रत्ययहीनं भवमुख्यैर्योगासक्तैरर्चितपादाम्बुजयुग्मम् ।
नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदावम् ।। 4 ।।


त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलधारी ।
भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेत:सहचारी ।। 5 ।।


त्वामाधन्तं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम् ।
भक्तिश्रद्धाभावसमेतैर्भजनीयं वन्दे रामं सुंदरमिन्दीवरनीलम् ।। 6 ।।


कोवा ज्ञातुं त्वामतिमानं गतमानं मायासक्तो माधव शक्तो मुनिमान्यम् ।
वृन्दारण्ये वन्दितवृन्दारकवृन्दं वन्दे रामं भवमुखवन्धं सुखकंदम् ।। 7 ।।


नानाशास्त्रैर्वेदकदम्बै: प्रतिपाधं नित्यानन्दं निर्विषयज्ञानमनादिम् ।
मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं मरकतवर्णं मथुरेशम् ।। 8 ।।


श्रद्धायुक्तो य: पठतीमं स्तवमाधं ब्राहमां ब्रह्मज्ञानविधानं भुवि मर्त्य: ।
रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगत: स्यात् ।। 9 ।।


।। इति श्री राम स्तुति सम्पूर्णम् ।।