श्री हनुमान कृत श्रीराम स्तुति

 

श्री हनुमान कृत श्रीराम स्तुति


नमो रामाय हरये विष्णवे प्रभविष्णवे, आदिदेवाय देवाय पुराणाय गदाभृते ।
विष्टरे पुष्पके नित्यं निविष्टाय महात्मने, प्रहष्ट वानरानीकजुष्टपादाम्बुजाय ते ॥ १ ॥


निष्पिष्ट राक्षसेन्द्राय जगदिष्टविधायिने, नमः सहस्त्रशिरसे सहस्त्रचरणाय च ।
सहस्त्राक्षाय शुद्धाय राघवाय च विष्णवे, भक्तार्तिहारिणे तुभ्यं सीतायाः पतये नमः ॥ २ ॥


हरये नारसिंहाय दैत्यराजविदारिणे, नमस्तुभ्यं वराहाय दन्ष्ट्रोद्धृतवसुन्धर ।
त्रिविक्रमयाय भवते बलियज्ञविभेदिने, नमो वामन रूपाय नमो मन्दरधारिणे ॥ ३ ॥


नमस्ते मत्स्यरूपाय त्रयीपालनकारिणे, नमः परशुरामाय क्षत्रियान्तकराय ते ।
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे, महादेवमहाभीममहाकोदण्डभेदिने ॥ ४ ॥


क्षत्रियान्तकरक्रूरभार्गवत्रास​कारिणे, नमोस्त्वहल्यासंतापहारिणे चापधारिणे ।
नागायुतबलोपेतताटकादेहहारिणे, शिलाकठिनविस्तारवालिवक्षोविभेदि​ने ॥ ५ ॥


नमो मायामृगोन्माथकारिणेऽज्ञानहारिणे, दशस्यन्दनदु:खाब्धिशोषणागत्स्यरूपिणे ।
अनेकोर्मिसमाधूतसमुद्रमदहारिणे, मैथिलीमानसाम्भोजभानवे लोकसाक्षिणे ॥ ६ ॥


राजेन्द्राय नमस्तुभ्यं जानकीपतये हरे, तारकब्रह्मणे तुभ्यं नमो राजीवलोचन ।
रामाय रामचन्द्राय वरेण्याय सुखात्मने, विश्वामित्रप्रियायेदं नमः खरविदारिणे ॥ ७ ॥


प्रसीद देवदेवेश भक्तानामभयप्रद, रक्ष मां करुणासिन्धो रामचन्द्र नमोऽस्तुते ।
रक्ष मां वेदवचसामप्यगोचर राघव, पाहि मां कृपया राम शरणं त्वामुपैम्यहम् ॥ ८ ॥


रघुवीर महामोहमपाकुरु ममाधुना, स्नाने चाचमने भुक्तौ जाग्रत्स्वप्नसुषुप्तिषु
सर्वावस्थासु सर्वत्र पाहि मां रघुनन्दन ॥ ९ ॥


महिमानं तव स्तोतुं कः समर्थो जगत्त्रये, त्वमेव त्वन्महत्वं वै जानासि रघुनन्दन ॥ १० ॥


॥ इति श्री हनुमान कृत श्रीराम स्तुति सम्पूर्णम् ॥