अक्रूर कृत श्रीकृष्ण स्तुति:

 

अक्रूर कृत श्रीकृष्ण स्तुति:


नम: श्रीकृष्णचन्द्राय परिपूर्णतमाय च ।
असंख्याण्डाधिपतये गोलोकपतये नम: ॥ १ ॥


श्रीराधापतये तुभ्यं  व्रजाधीशाय ते नम: ।
नम: श्रीनन्दपुत्राय यशोदानन्दनाय च ॥ २ ॥


देवकीसुत गोविन्द वासुदेव जगत्पते ।
यदूत्तम जगन्नाथ पाहि मां पुरुषोत्तम ॥ ३ ॥


वाणी सदा ते  गुणवर्णने स्यात् ।
कर्णौ कथायां  ममदोश्च कर्मणि ।
मन: सदा त्वच्चरणारविन्दयो ।
र्दृशौ स्फुरद्धामविशेषदर्शने ॥ ४ ॥


॥ इति अक्रूर कृत श्रीकृष्ण स्तुति: सम्पूर्णम् ॥