भागवत स्तुति

 

भागवत स्तुति 

भीष्म उवाच –

इति मतिरूपकल्पिता वितृष्णा भगवति सात्वतपुंगवे विभुम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं प्रक्रतिमुपेयुषि यद्भवप्रवाह: ।। 1 ।।


त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ।। 2 ।।


युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलंगकृतास्ये ।
मम निशितशरैर्विभिदयमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ।। 3 ।।


सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा ह्रतवति पार्थसखे रतिर्ममास्तु ।। 4 ।।


व्यवहितप्रतनामुखं निरीक्ष् स्वजनवधाद्विमुखस्य दोषबुद्धया ।
कुमतिमहरदात्मविद्या यश्चरणरति: परमस्य तस्य मेऽस्तु ।। 5 ।।


स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुमवप्लुतो रथस्थ: ।
धृतरथचरणोऽभ्ययाच्चलद्गुर्हरिरिव हन्तुमिभं गतोत्तरीय: ।। 6 ।।


शितविशिखहतो विशीर्णदंश: क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मदवधार्थं स भवतु मे भगवान् गतिर्मुकुन्द: ।। 7 ।।


विजयरथकुटुंब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गता: सरुपम् ।। 8 ।।


ललितगतिविलासवल्गुहासप्रणयनिरीक्षणकल्पितोरुमाना: ।
कृतमनुकृतवत्य उन्मदान्धा: प्रक्रतिमगन्किल यस्य गोपवध्व: ।। 9 ।।


मुनिगणनृपवर्यसंकुलेऽन्त: सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ।। 10 ।।


तमिममहमजं शरीरभाजां हृदि ह्रदि धिष्ठितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोह: ।। 11 ।।


।। इति भागवत स्तुति सम्पूर्णम् ।।