श्री कामेश्वरी स्तुति

  

श्री कामेश्वरी स्तुति


युधिष्ठिर उवाच –


नमस्ते परमेशानि ब्रह्मरुपे सनातनि ।
सुरासुरजगद्वन्द्दे कामेश्वरि नमोsस्तु ते ॥ १ ॥


न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वराः ।
प्रसीद जगतामाद्ये कामेश्वरि नमोsस्तु ते ॥ २ ॥


अनादिपरमा विद्या देहिनां देहधारिणी ।
त्वमेवासि जगद्वन्द्ये कामेश्वरि नमोsस्तु ते ॥ ३ ॥


त्वं बीजं सर्वभूतानां त्वं बुद्धिश्चेतना धृतिः ।
त्वं प्रबोधश्च निद्रा च कामेश्वरि नमोsस्तु ते ॥ ४ ॥


त्वामाराध्य महेशोsपि कृतकृत्यं हि मन्यते ।
आत्मानं परमात्माsपि कामेश्वरि नमोsस्तु ते ॥ ५ ॥


दुर्वृत्तवृत्तसंहर्त्रि पापपुण्यफलप्रदे ।
लोकानां तापसंहर्त्रि कामेश्वरि नमोsस्तु ते ॥ ६ ॥


त्वमेका सर्वलोकानां सृष्टिस्थित्यन्तकारिणी ।
करालवदने कालि कामेश्वरि नमोsस्तु ते ॥ ७ ॥


प्रपन्नार्तिहरे मातः सुप्रसन्नमुखाम्बुजे ।
प्रसीद परमे पूर्णे कामेश्वरि नमोsस्तु ते ॥ ८ ॥


त्वामाश्रयन्ति ये भक्त्या यान्ति चाश्रयतां तु ते ।
जगतां त्रिजगद्धात्रि कामेश्वरि नमोsस्तु ते ॥ ९ ॥


शुद्धज्ञानमये पूर्णे प्रकृतिः सृष्टिभाविनी ।
त्वमेव मातर्विश्वेशि कामेश्वरि नमोस्तुते ॥ १० ॥


॥ इति श्री कामेश्वरी स्तुति सम्पूर्णम् ॥