शिव पञ्चरत्न स्तुती शिव महापुराणे

 

शिव पञ्चरत्न स्तुती शिव महापुराणे


श्रीकृष्ण उवाच –


मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् ।
भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् ।
भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १ ॥


वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः ।
मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः ।
मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २ ॥


कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै ।
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।
रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३ ॥


नक्तनाथकलाधरं नगजापयोधरनीरजा –
लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् ।
शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४ ॥


रक्तनीरजतुल्यपादपयोजसन्मणिनूपुरम् ।
पत्तनत्रयदेहपाटनपङ्कजाक्षशिलीमुखम् ।
वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५ ॥


॥ फलश्रुतिः ॥


यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः ।
प्रातरेव मया कृतं निखिलाघतूलमहानलम् ।
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात् ।
ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत ॥ ६ ॥


॥ इति श्रीशिवमहापुराणे च्युतपुरीमाहात्म्ये श्रीकृष्ण कृत श्रीशिवपञ्चरत्नस्तुतिः सम्पूर्णम् ॥